॥ सुभाषितानि ॥

शेवटल्या बदलाची तारीख़ २०१४०१२७

००१.  किं ते विद्यते शिल्पम् ?

००२.  लावकश्च वराहश्च महिषी कुंजरस्तथा ।  कर्ता कारयिता चैव षडेऽते समभागिनः
००३.  श्लिष्टाक्रिया कस्यचिदात्मसंस्था ।  संक्रान्तिरन्यस्य विशेषयुक्ता
यस्योभयं साधु स शिक्षकाणां ।  धुरिप्रतिष्ठापयितव्य एव   -- मालविकाग्निमित्रम्
००४.  तत्कर्म यन्नबन्धाय सा विद्या या विमुक्तये ।  आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम्   -- विष्णुपुराण १-१९-४१

००५.  पृथिव्यां त्रीणिरत्नानि जलमन्नं सुभाषितम् ।  मूढैः पाषाणखंडेषु रत्नसंज्ञा विधीयते

००६. अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । 
वञ्चनंचापमानंच मतिमान्नप्रकाशयेत्

००७. काव्यशास्त्रविनोदेन कालोगच्छति धीमताम् ।  व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥  -- हितोपदेश

००८.  चिन्तायाश्च चितायाश्च बिन्दुमात्रं विशेषता ।  सजीवं दहते चिन्ता निर्जीवं दहते चिता

००९. द्राक्षा म्लानमुखी जाता शर्कराचाश्मतां गता ।  सुभाषितरस्याग्रे सुधा भीता दिवंगता

०१०.  द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः ।  प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्   -- विदुरनीति 

०११.  साहित्य संगीत कला विहीनः साक्षात्पशुः पुच्छविषाणहीनः ।  तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम्  ॥  -- नीतिशतकम्

०१२.  अपरे काव्यसंसारे कविरेकः प्रजापतिः ।  यथास्मै रोचते विश्वं तथेदं परिवर्तते   -- ध्वन्यालोक

०१३.  दुःखे दुःखाधिकान्पश्येत् सुखे पश्येत्सुखाधिकान् ।  आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् 

०१४.  अक्षराणि परीक्षन्तामम्बराडम्बरेण किम् ।  शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न कथ्यते

०१५.  तृणात् लघुतरः तूलः तूलादपि च याचकः ।  वायुना किं न नीता सो ?  मामयंप्रार्थयेतिति

०१६.  द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम् ।  धनवन्तमदातारं दरिद्रंचातपस्विनम्

०१७.  प्रारभ्यते न खलु विघ्नभयेन नीचैः । प्रारभ्य विघ्नविहता विरमन्ति मध्याः विघ्नैः पुनःपुनरपि प्रतिहन्यमानाः ।  प्रारभ्य चोऽत्तमजनाः न परित्यजन्ति

०१८.  यस्य कस्य तरोः मूलं येन केनापि घर्षितम् ।  यस्मै कस्मै प्रदातव्यं यद्वा तद्वा भविष्यति

०१९.  अस्माकं बदरीचक्रं युष्माकं बदरीतरुः ।  बादरायणसम्बन्धः यूयं यूयं वयं वयं

०२०.  कर्ता कारयिता चैव प्रेरकश्चानुमोदकः । सुकृते दुष्कृते चैव चत्वारः समभागिनः


०२१.  रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् । अम्भोदा बहवः वसन्ति गगने सर्वे तु नैतादृशाः
         केचित् वृष्टिभि आर्द्रयन्ति वसुधां गर्जन्ति केचित् वृथा । 
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥  -- नीतिशतकम् ४७


०२२.  विद्या विवादाय
धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥


०२३. 
अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।  मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥  लोकः प्रयागवासी कूपे स्नानं समाचरति ॥

०२४.  कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरेजनाः ॥

०२५.  कार्येषु मन्त्री करणेषु दासी भोज्येषु माता शयनेषु रम्भा । धर्मानुकूला क्षमया धरित्री भार्या च षाड्गुण्यवतीह दुर्लभा ॥

०२६.  प्रथमे नाऽर्जिता विद्या द्वितीये नाऽर्जितं धनम् । तृतीये नाऽर्जितं पुण्यं चतुर्थे किं करिष्यति ॥

०२७.  अपूर्वो कोऽपि कोशोयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ॥

०२८.  न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि । व्ययेकृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥

०२९.  न राज्यं न च राजाऽसीत् दण्डयो न च दाण्डिकः । धर्मेणैव प्रजाः सर्वाः रक्षन्ति स्म परस्परम् ॥       -- शांतिपर्व

०३०.  अग्निः शेषं ऋणः शेषं शत्रुः शेषं तथैव च । पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्  ॥

०३१.  नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्वस्य स्वयमेव मृगेन्द्रता ॥

०३२.  नाक्षरं मन्त्ररहितं न च मूलमनौषधम् । अयोग्यपुरुषो नास्ति योजकस्तत्रदुर्लभः ॥

०३३.  आहारनिद्राभयमैथुनं च सामान्यमेतद् पशुभिर्नराणाम् । धर्मोऽहि तेषां अधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥

०३४.  अपि स्वर्णमयी लंका न मे रोचति लक्ष्मण । जननी जन्मभूमिश्च स्वर्गादपि गरीयसि ॥

०३५.  तैलात् रक्षेत् जलात् रक्षेत् रक्षेत्शिथिलबन्धनात् । मूर्खहस्ते न दातव्यं एवं वदति पुस्तकम् ॥

०३६.  भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्यां हि काव्यं मधुरं तस्मादपि सुभाषितम् ॥

०३७.  उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निस्पृहस्य तृणं जगत् ॥

०३८.  विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥

०३९.  सुलभाः पुरुषाः राजन् सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥    -- विदुरनीति

०४०.  संपूर्णकुम्भो न करोति शब्दं अर्धोघटो घोषमुपैति नूनम् । विद्वान्कुलीनो न करोति गर्वं गुणैर्विहीनाः बहु जल्पयन्ति ॥

०४१.  अहन्यहनि भूतानि गच्छन्ति यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥   -- महाभारत

०४२.  धर्मं यो बाधते धर्मो न स धर्मः कुधर्मकः । अविरोधात्तु यो धर्मो स धर्मः सत्यविक्रम ॥

०४३.  शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्रेषु दाता भवति वा न वा ॥

०४४.  प्रथमवयसि पीतं तोयमल्पं स्मरन्तः । शिरसि निहितभाराः नारिकेला नराणाम् ॥
         ददति जलमनल्पात् स्वादमाजीवितान्तम् । न हि कृतमुपकारं साधवोः विस्मरन्ति ॥

०४५.  विकृतिं नैव गच्छन्ति संगदोषेण साधवः । आवेष्टितं महासर्पैः चन्दनं न विषायते ॥

०४६.  घटं भिन्द्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केन प्रकारेण प्रसिद्धपुरुषो भवेत् ॥

०४७.  परस्परविरोधे तु वयं पञ्चश्च ते शतम् । परैस्तु विग्रहे प्राप्ते वयं पञ्चाधिकं शतम् ॥    -- युधिष्ठिर

०४८.  पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तत् धनम् ॥

०४९.  अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः । उत्तमाः मानमिच्छन्ति मानो हि महतां धनम् ॥

०५०.  आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मोऽपि जानाति नरस्य वृत्तम् ॥   -- महाभारत

०५१.  न त्वाहं कामये राज्यं न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ॥   --महाभारत (द्रोणपर्व)

०५२.  न भूतपूर्वं न कदापि वार्ता हेम्नः कुरंगो न कदापि दृष्टः । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥

०५३.  अर्थानामर्जने दुःखं अर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥

०५४.  उपकारान्स्मरे नित्यं अपकाराञ्च विस्मरेत् । शुभे शैघ्र्यं प्रकुर्वीत अशुभे दीर्घसूत्रता ॥    -- वाल्मीकिरामायण

०५५.  स हि भवति दरिद्रो यस्य तृष्णा विशाला । मनसि च  परितुष्टे कोऽर्थवान्को दरिद्रः ॥

०५६.  कालो वा कारणं राज्ञो राजा वा कालकारणम् । इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥

०५७.  आशा नाम मनुष्याणां काचिदाश्चर्यशृंखला । यया बद्धाः प्रधावन्ति मुक्ताः तिष्ठन्ति पङ्गुवत् ॥

०५८.  अकृत्वा परसंतापं अगत्वा खलसंसदम् । अनुत्सृज्य सतां वर्तं यदल्पमपि तद् बहु ॥

०५९.  उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः । परस्परं प्रशंसन्ति अहो रूपं अहो ध्वनिः ॥

०६०.  देहीति वचनद्वारा देहस्थाः पञ्चदेवताः । तत्क्षणादेव लीयन्ते धीर्ह्रीर्श्रीर्कान्तिकीर्तयः ॥   (intelligence, elegance, prosperity, glow, fame)

०६१.  यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूतसमागमः ॥  -- महाभारत

०६२.  वयमिह परितुष्टा वल्कलैस्त्वं  दुकूलैः । सम इह परितोषो निर्विशेषो विशेषः ॥
         स तु भवति दरिद्रो यस्य तृष्णा विशाला । मनसि तु परितुष्टे कोऽर्थवान् को दरिद्रः ॥  -- भर्तृहरि, वैराग्यशतकम् , क्र. ५३

०६३.  नाहं जानामि केयूरे नाहं जानामि कुण्डले । नूपूरेत्वभिजानामि नित्यं पादाभिवन्दनात् ॥  -- रामायण

०६४.  दूरस्थाः पर्वताः रम्याः वेश्याः च मुखमण्डने । युद्धस्य तु कथा रम्या त्रीणि रम्याणि दूरतः ॥

०६५.  श्रोत्रं श्रुतेनेव न कुण्डलेन । दानेन पाणिं न तु कंकणेन ॥
         विभाति कायः करुणापराणाम् । परोपकारैर्नतु चन्दनेन ॥  -- भर्तृहरि, नीतिशतकम् , क्र. ७२

०६६.  महाशय्या पृथ्वी विपुलमुपधानं भुजलता । वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः ॥
         शरच्चन्द्रो दीपो विरतिवनितासंगमुदितः । सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥  -- भर्तृहरि, वैराग्यशतकम् , क्र. ९४

०६७.  गंगातीरे हिमगिरिशिला बद्धपद्मासनस्य । ब्रह्मध्यानभ्यसनविधिना योगनिद्रां गतस्य ॥
         किं तैर्भव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः । कण्डूयन्ते जरठहरिणाः स्वांगमंगेमदीये ॥  -- भर्तृहरि, वैराग्यशतकम् , क्र. ९८

०६८.  मातार्मेदिनि तात मारुत सखे तेजः सुबन्धो जल- । भ्रातर्व्योम निबद्ध एव भवतामन्त्यः प्रणामांजलिः ॥
         युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मल- । ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥  -- भर्तृहरि, वैराग्यशतकम् , क्र. १००



Go Back to bindhast : home